मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ६

संहिता

आदिद्धोता॑रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते ।
दे॒वान्यत्क्रत्वा॑ म॒ज्मना॑ पुरुष्टु॒तो मर्तं॒ शंसं॑ वि॒श्वधा॒ वेति॒ धाय॑से ॥

पदपाठः

आत् । इत् । होता॑रम् । वृ॒ण॒ते॒ । दिवि॑ष्टिषु । भग॑म्ऽइव । प॒पृ॒चा॒नासः॑ । ऋ॒ञ्ज॒ते॒ ।
दे॒वान् । यत् । क्रत्वा॑ । म॒ज्मना॑ । पु॒रु॒ऽस्तु॒तः । मर्त॑म् । शंस॑म् । वि॒श्वधा॑ । वेति॑ । धाय॑से ॥

सायणभाष्यम्

होतारं होप्मनिष्पादकं आह्वातारंवादेवानां ईदृशमग्निंदिविष्टिषु दिवएषणेषुनिमित्तभूतेषुवृण- ते संभजते आदित् अनन्तरमेव अनन्तरमेव तथा पपृचानासः हविषा स्तुत्याचसंपृचानाऋत्विजोय- जमानाः पृचेश्छान्दसस्यलिटः कानच् ऋंजतेप्रसाधयन्ति किमिव भगमिव तंयथाजनाः प्रसाधयन्ति तद्वत् यद्वा महान्तं राजानमिव सूर्यदीप्तिवत्पूज्यमित्यर्थः ऋंजतिःप्रसाधनकर्मेतियास्कः । यद्यस्माद- यमग्निः पुरुष्टुतः बहुभिर्बहुधावास्तूयमानः क्रत्वाक्रतुनाकर्मणायागादिरूपेण मज्मनाशारीरेण बलेन- चयुक्तान्देवान् व्यवहर्तॄन् ऋत्विजः यज्ञभुजोदेवान्वाक्रत्वामज्मनाचयोजयितुं तथामर्तं यजमानंशंसं स्तुतिंच स्तुत्यंवातं विशधाविशधनः यद्वा विशात्मकोयंवेति पूर्वोक्तान्कामयते किमर्थं धायसे हवि- र्लक्षणान्नाय तस्मात् होतारमग्निंवृणते ऋंजतेच ॥ ६ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः