मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः ।
गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥
मि॒म्यक्ष॑ । येषु॑ । सुऽधि॑ता । घृ॒ताची॑ । हिर॑ण्यऽनिर्निक् । उप॑रा । न । ऋ॒ष्टिः ।
गुहा॑ । चर॑न्ती । मनु॑षः । न । योषा॑ । स॒भाऽव॑ती । वि॒द॒थ्या॑ऽइव । सम् । वाक् ॥
सुधिता सुष्ठुनिहिता सुष्ठुहितावा लोकेघृताचीघृतंक्षरणशीलमुदकंअञ्चन्ती हिरण्यनिर्णिक् हितर- मणीयरूपा निर्णिगितिरूपनाम एवं रूपऋष्टिः विद्युदाख्यायुधविशेशोवा उपरान मेघमालेव यषुम- रुत्सुसंमिम्यक्ष म्यक्षतिर्गतिकर्मा सङ्गताभूत् मेघपङ्गिविद्युताविमे अपि सङ्गते इत्यर्थः मेघपङि- ऋर्विद्युच्चोभेदृष्टान्तेनविशेष्येते गुहानिगूढागुहायां वान्तरिक्षेचरन्ती तत्रदृष्टान्तः—मानुषोनयोषा मनुष्यस्य परिवृढादेर्महिषीवत् सायथासुवेषान्तः पुरएवमध्येचरितद्वत् किंसर्वदिवमिति नेत्याह— सभावती सभाजनसङ्घस्तद्वतीवर्षकाले आविर्भवन्तीत्यर्थः तत्रदृष्टान्तः—विदथ्यावागिव विदथो- यज्ञः तदर्हतीतिविदथ्या प्रैषस्तोत्रादिरूपावाक् सायथायज्ञसभांप्राप्याविर्भवतितद्वत् यद्वा विद- थ्यावेदनार्हाविवदमानयोर्वाक् सायथाभवति तद्वत् सैवंरूपायेषुमिम्यक्ष तेमरुतो देवयजनमागच्छ- न्त्वित्यर्थः ॥ ३ ॥