आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑ः ।
भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धास॒ः कर॑न्त्सु॒षाहा॑ विथु॒रं न शवः॑ ॥
आ । नः॒ । विश्वे॑ । आस्क्राः॑ । ग॒म॒न्तु॒ । दे॒वाः । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ।
भुव॑न् । यथा॑ । नः॒ । विश्वे॑ । वृ॒धासः॑ । कर॑न् । सु॒ऽसहा॑ । वि॒थु॒रम् । न । शवः॑ ॥
नोस्माकंयज्ञंविश्वेसर्वेदेवाःआस्काः शत्रूणामास्कन्दयितारः आक्रमितारोवा आगमन्तु आगच्छन्तु केते मित्रोर्यमावरुणश्च त्रयोपिसजोषाः समानप्रीतयःसन्तः आगच्छन्तु किन्तु विश्वे देवाः नोस्माकं वृधासोवर्धयितारः यथाभुवन् भवेयुः तथासुषाहा सुष्ठु शत्रूणामभिभवेननोस्मदीयंशवोन्नंविथुरंहीनं यथानकरन् नकुर्युः तथाआगच्छन्तु ॥ २ ॥