त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
त्वम् । कुत्स॑म् । शु॒ष्ण॒ऽहत्ये॑षु । आ॒वि॒थ॒ । अर॑न्धयः । अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् ।
म॒हान्त॑म् । चि॒त् । अ॒र्बु॒दम् । नि । क्र॒मीः॒ । प॒दा । स॒नात् । ए॒व । द॒स्यु॒ऽहत्या॑य । ज॒ज्ञि॒षे॒ ॥
हे इंद्र त्वं कुत्सं कुत्ससंज्ञ कमृषिं शुष्णहत्येषु । शुष्णः शोषयिता । एतन्नाम्नॊऽसुरस्य हननयुक्तेषु संग्रामेष्टाविथ । ररक्षिथ । तथातिथिग्वायातिथिभिर्गंतव्याय दिवोदासाय शंबरमेतन्नामानमसुरमरंधः । हिंसां प्रापितः । तथा महांतं चित् अति प्रवृद्धमप्यर्बुदमेतत्संज्ञ कमसुरं पदा पादेन नि क्रमीः । नितरामाक्रमिताभूः । यस्मादेवं तस्मात्सनादेव चिरकालादेवारभ्य दस्युहत्यायो पक्षपयितृणां हननाय जज्ञिषे । सर्वदा त्वं दस्युहननशीलो भवसीत्यर्थः ॥ अरंधयः । रध हिंसासंराड्ध्योः । रधिजभोरचि (पा ७-१-६१) इति धातोर्नुम् । अति थिग्वाय । गमेरौणादिको ड्वप्रत्ययः । क्रमीः । क्रमु पादविक्षेपे । ह्न्यंतक्षण (पा ७-२-५) इति वृद्धिप्रतिषेधः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । पदा । सावेकाच इति वोडिदंपदादीति वा विभक्तेरुदात्तत्वम् । जज्ञिषे । जनी प्रादुर्भावे । लिट गमहनेत्यादिनोपधालोपः ॥ ६ ॥