इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् ।
बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नरः॑ ॥
इन्द्र॑स्य । अङ्गि॑रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा॑ । तन॑याय । धा॒सिम् ।
बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः । सम् । उ॒स्रिया॑भिः । वा॒व॒श॒न्त॒ । नरः॑ ॥
अत्रेदमाख्यानं सरमा नाम देवशुनी । पणिभिर्गोष्वपहृतासु तद्गवेषणाय तां सरमामिंद्रः पाहैषीत् । यथा लोके व्याधो वनांतर्गतमृगान्वेषणाय श्वानं विसृजति तद्वत् । सा च सरमैवमवोचत् । हे इंद्र अस्मदीयाय शिशवे तद्गोसंबंधि क्षीराद्यन्नं यदि प्रयच्छसि तर्हि गमिष्यामीति । स तथेत्यब्रवीत् । तथा च शाट्यायनकम् । अन्नादिनीं ते सरमे प्रजां करोमि या नोगा अन्वविंद इति । ततो गत्वा गवां स्थानमज्ञासीत् । ज्ञात्वा चास्मै न्यवेदयात् । तथा निवेदितासु गोषु तमसुरं हत्वा ता गाः स इंद्रोऽलभतेति । अयमर्थोऽस्यां प्रतिपाद्यते ॥ इंद्रस्यांगिरसामृषीणां चेष्टौ प्रेषणे सति सरमा देवशुनी तनयाय स्वपुत्राय धासिमन्वं विदत् । अविंदत् । धासिरित्यन्ननाम । धासिरिरेति तन्नामसु पाठात् । तया गोषु निवेदितासु बृहस्पतिर्बृहतां देवानामधिपतिरिंद्रोऽद्रिमत्तारमसुरं भिनत् । अवधीत् । केनापहृता गा विदत् । अलभत । ततो नरो नेतारो देवा उस्रियाभिर्गोभिः सह । उस्रियेति गोनाम । सं वावशंत । भृशं हर्षशब्दमकुर्वन् । यद्वा गोभिः साधनभूताभिस्तदीयं क्षीरादिकमकामयंत । समगच्छंतेत्यर्थः ॥ इष्टौ । इष गतावित्यस्माद्भावे क्तिनि मंत्रे वृषेत्यादिनाक्तिन उदात्तत्वम् । विदत् । विद्लृलाभे । लुङि लृदित्वादङ् । बहुलं छंदस्यमाङ्यो गेऽपीत्यडभावः । अङि एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । सरमा । सरमा सरणात् । नि ११-२४ । इति यास्कः । सर्तेरौणादिकोऽमप्रत्ययः । धासिम् । धेट् पाने । धीयते पीयत इति धासिः । औणादिकः सिप्रत्ययः । यद्वा । दधातेः पोषणार्थात् । सिप्रत्ययः । बृहस्पतिः तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (पा ६-१-१५७) इति सुडागमस्तलोपश्च । बृहच्छब्दोऽंतोदात्तः । तस्य केचिदाद्युदात्तत्वं वर्णयंतीत्युक्तम् । पतिशब्दो डतिप्रत्ययांत आद्युदात्तः । अत उभे वनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । उस्रियाभिः । निवसत्यस्यां क्षीरादिकमित्युस्रा गौः । वस निवास इत्यस्मात् स्फायितंचीत्यादिनाधिकरणे रक् । वचिस्वपीत्यादिना संप्रसारणम् । उस्राशब्दात्स्वार्थे पृषोदरादित्वेन घप्रत्यय इति निघंटुभाष्यम् । घस्येयादेशः । प्रत्ययस्वरः । वावशंत । वाशृ शब्दे । अस्माद्य ङंताल्लङिझस्यांतादेशे सति तस्य छंदस्यु भयथेत्यार्धधातुकत्वादतोलोपयलोपौ । व्यत्ययेन धातोर्ह्रस्वत्वम् । यद्वा । वश कांतावित्यस्माद्यङि न वशः (पा ६-१-२०) इति संप्रसारणे प्रतिषिद्धे पूर्ववत्प्रक्रिया ॥ ३ ॥