मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७०, ऋक् ८

संहिता

अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥

पदपाठः

अरा॑धि । होता॑ । स्वः॑ । निऽस॑त्तः । कृ॒ण्वन् । विश्वा॑नि । अपां॑सि । स॒त्या ॥

सायणभाष्यम्

पूर्वीर्बह्व्य उषसः क्षपो निशाश्च विरूपाः शुक्ल कृष्णतया विविधरूपाः सत्यो यमग्निं वर्धान् वर्धयंति । तथा स्थातुः स्थावरं वृक्षादिकं रथं रममाणं जंगमं मनुष्यादिकं च ऋतप्रवीतमृतेनोदकेन सत्येन यज्ञेन वा प्रकर्षेण वेष्टितं यमग्निं वर्धयंति । सोऽग्निः स्वः सुष्ट्वरणीये देवयजने निषत्तो निषण्ण उपविष्टः सन् होता देवानामाह्वाताराधि । संसिद्धोऽभूत् । यद्वा । ऋत्विग्भिरराधि । आराधित इत्यर्थः । किं कुर्वन् । विश्वानि सर्वाणि सत्या सत्सु यजमानेषु भवानि यद्वा सत्यफलान्यपांसि कर्माणि कृण्वन् कुर्वन् ॥ वर्धान् । वृधेर्ण्यंताल्लेट्याडागमः । छंदस्युभयथेति शप आर्धधातुकत्वात् णिलोपः । इतश्च लोप इतीकारलोपे संयोगांतलोपः । ऋतप्रवीतम् । व्येञ् संवरणे । अस्मात्कर्मणि निष्ठा । वचिस्वपीत्यादिना संप्रसारणम् । कृद्ग्रहणे गतिकारपूर्वस्य ग्रहणात्तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । आराधि । राध साध संसिद्धौ । कर्तरि लुङि व्यत्ययेन च्लेश्चिण् ॥ ७ ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४