अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वचः॑ ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
अवो॑चाम । रहू॑गणाः । अ॒ग्नये॑ । मधु॑ऽमत् । वचः॑ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥
ऋषिः कृतं स्तोत्रमनयोपसंहरति । रहूगणा रहूगणस्य पुत्रा वयं गोतमा अग्नये अंगनादिगुणयुक्ताय देवाय मधुमद्वचो माधुर्योपेतं वचनमवोचाम प्रावादिष्म । तद्वचनरूपैर्द्युम्नैर्द्योतमानैः स्तोत्रैः पुनःपुनरग्निं वयमभि प्र णोनुमः । अभिमुख्येन प्रकर्षेण स्तुमः ॥ ५ ॥