याभि॒ः परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति ।
याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥                
                    याभिः॑ । परि॑ऽज्मा । तन॑यस्य । म॒ज्मना॑ । द्वि॒ऽमा॒ता । तू॒र्षु । त॒रणिः॑ । वि॒ऽभूष॑ति ।
याभिः॑ । त्रि॒ऽमन्तुः॑ । अभ॑वत् । वि॒ऽच॒क्ष॒णः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥                
परिज्मा परितो गंता वायुस्तनयस्यात्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते । अथ यः प्राणापानयोः संधिः स व्यानः । अतो यान्यन्यानि वीर्यवंति कर्माणि यथाग्नेर्मंथनमाजेः सरणं दृढस्य धनुष अयमनमप्राणन्ननपानंस्तानि करोतीति । छा उ १-३-३, ४, ५, । यद्वा सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्ने । पुत्रत्वम् । आम्नायते च । वायोरग्निरिति । एवं स्वपुत्रस्याग्नेर्मज्मना बलेन युक्तः सन् द्विमाता द्वयोर्लोकर्योर्निर्माता । अग्निः पृथिवीस्थानो वायुरंतरिक्षस्थानः । उभयोर्मिलितयोरुभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । सुपां सुलुगिति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्याः जातस्य । एवं भूतो वायुर्हे अश्विनौ याभिरूतिभिर्हेतुभूतैः पालनैस्तूर्षु तरीतृषु धावत्सु मध्ये तरणिरतिशयेन तरीता शीघ्रगामी विभूषति व्याप्तो भवति । यद्वा । विभावति विशेषेण सर्वमलंकरोति । अपि च । त्रिमंतुस्त्रयाणां मंता त्रिविधेषु पाकयज्ञहविर्यज्ञ सोमयज्ञेष्वासादितज्ञानः कक्षीवान् याभिर्युष्मदीयाभिरूतिभिर्विचक्षणो विशिष्टज्ञानयुक्तोऽभवत् । ताभिः । सर्वाभिरूतिभिरस्मानागच्छतं ॥ परिज्मा । परिपूर्वादज गतिक्षेपणयोरित्यस्मात् श्वन्नुक्षन्नित्यादौ निपात्यते । तूर्षु । तॄ प्लवनतरणयोः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । यद्वा । तरतेः क्विप् । ज्वरत्वरेत्यादिना वकारोपधयोरूट् । सावेकाच इति विभक्तेरुदात्तत्वम् । विभूषति भवतेर्लेट्यडागमः । सिब्बहुलं लेटीति सिप् । यद्वा । भूष अलंकारे । भौवादिकः । विचक्षणः अनुदात्तेतश्च हलादेरिति युच् ॥ ४ ॥