उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ ।
पृ॒णन्तं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥
उप॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । म॒यः॒ऽभुवः॑ । ई॒जा॒नम् । च॒ । य॒क्ष्यमा॑णम् । च॒ । धे॒नवः॑ ।
पृ॒णन्त॑म् । च॒ । पपु॑रिम् । च॒ । श्र॒व॒स्यवः॑ । घृ॒तस्य॑ । धाराः॑ । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ॥
पूर्वस्यामृच्यानीतेनधनेनसोमयागंकुर्वित्युक्तम् तमेवसोमयागंफलप्रदर्शनेनस्तौति सिन्धवः स्य- न्दनशीलाः प्रस्रुवत्पयोधराः सिन्धुःस्यन्दनादितियास्कः । मयोभुवः सुखस्यभावयित्र्यः मयइतिसु- खनाम मयःसुग्म्यमितितन्नामसुपाठात् धेनवः वीणयित्र्योगावः ईजानं सोमयागंअनुतिष्ठन्तं तथा यक्ष्यमाणं यक्ष्यइतिप्रणीतंकुर्वन्तंच नकेवलमीजानंआपतुयक्ष्यइत्यध्यवसितवन्तमपिउपउपेत्य क्षर- न्तिसवन्तिप्रीणयन्तीत्यर्थः नचपूर्वस्यामृचिसोमंपिबेत्युक्तत्वात्सर्वेषांसोमयागानांअग्निष्टोमात्मक- ज्योतिष्टोमस्यप्रकृतस्य ज्योतिष्टोमेनस्वर्गकामओयजेतेतिस्वर्गएवफलत्वेनश्रुता नगवादिकमितिवा- च्यम् स्वर्गवद्गवादिकामनयापि सोमयागस्यकर्तुंशक्यत्वान्नकेवलंसोमयागमनुतिष्ठतामेवमहत्फलं अपितुसुक्रुतसाधनानिकर्मान्तराणि अधितिष्ठतामपिमहत्फलमस्त्येवेतिदर्शयति पृणन्तंपितॄन्प्रीण- यन्तं पपुरिं प्रीणनशीलं इष्टदातारं प्राणिनः सर्वदाप्रीणयन्तंचपुरुषं श्रवस्यवोऽन्नमिच्छन्त्यः अन्नस- मृद्धिहेतवोघृतस्यधाराः यद्वा घृतकुल्याविश्वतः सर्वतः उपउपेत्ययन्तिप्राप्नुवन्ति प्रीणयन्तीत्यर्थः ॥ ४ ॥