आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रि॑ः ।अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥
आ । वा॒म् । दा॒नाय॑ । व॒वृ॒ती॒य॒ । द॒स्रा॒ । गोः । ओहे॑न । तौ॒ग्र्यः । न । जिव्रिः॑ ।
अ॒पः । क्षो॒णी इति॑ । स॒च॒ते॒ । माहि॑ना । वा॒म् । जू॒र्णः । वा॒म् । अक्षुः॑ । अंह॑सः । य॒ज॒त्रा॒ ॥
हेदस्राशत्रूणामुपक्षपयितारावश्विनौ वांयुवयोर्दानाय अस्मदभिमताययुवाभ्यां वाहयितुं आववृ- तीय आवर्तयामियागदेशं वृतेरन्तर्भावितण्यर्थस्येदं केनसाधनेनेतितदुच्यते गोःस्तुति रूपायावाचः ओहेनवहनेनसाधनेन यद्वा आवर्तनकालउच्यते गोर्गंत्र्याउषसोवहनेनजिव्रिःजीर्णोजयशीलोवातौ- ग्र्योन तुग्राख्यस्यराज्ञःपुत्रोभुज्युरिव सयथाशत्रुभिः संताड्यसमुद्रेपातितोयुवांपरितोष्यस्वोद्धाराय- स्वसमीपमानयततद्वदित्यर्थः इयमाख्यायिकातुग्रोहभुज्युमंहसः पिपृथोनासत्याभुज्यादिषुप्रसिद्धाच किमाश्चर्यमहमावर्तयामीति किन्तु अपः क्षोणी अपइत्यन्तरिक्षनाम क्षोणी क्षोणीतिपृथिवीनाम द्यावाप्रुथिव्यावपिवांयुवयोर्माहिनामाहात्म्येनयुवयोः प्रसादेनसर्वोपकारिण्यावितिख्यातिं सर्वप्रदे- शव्यापित्वं वा सचते सेवतेप्रत्येकं यद्वा वांमाहिनायोयजमानोद्यावापृथिव्यौसचते किञ्च हेयजत्राय- ष्टव्यौवांयुवयोः प्रसादादयमृषिः जूर्णः जरयाजीर्णाङ्गःसन्नंहसःपापात् जरालक्षणात्प्रमुच्य अक्षुः चिरकालव्याप्तोदीर्घजीवीभूयात् यद्वा हेयजत्रा वांप्रसादात् जूर्णो जीर्णोयजमानः अंहसोदुरितस्य- हन्त्रीरपः उक्तलक्षणानिसोमरसरूपाण्युदकानिक्षोणीक्षोण्यां सप्तम्यर्थेप्रगृह्यम् भूम्यांचिरकालं अक्षु- र्व्याप्तःसन् महिनामाहात्म्येनसचते द्वितीयोवामित्ययमादरार्थः ॥ ५ ॥