उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ॑न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । उप॑ । ब्रु॒वे॒ । नम॑सा । य॒ज्ञे । अ॒स्मिन् ।
द॒धाते॒ इति॑ । ये इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । सु॒प्रतू॑र्ती॒ इति॑ सु॒ऽप्रतू॑र्ती । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
उर्वीउर्व्यौ महत्यौपृथ्वी पृथिव्यौ बहुले अनेकप्रकारेणप्रथमाने बाह्वाकारे दूरेअन्ते विप्रकृष्टान्त- देशेअपारेइत्यर्थः ईदृश्यौ युवामस्मिन् यज्ञे नमसानमःसाधनेनस्तोत्रेणउपब्रुवे उपेत्यब्रवीमि स्तौमी- त्यर्थः पुनःकीदृश्यौ येसुभगे शोभनभाग्ये सुप्रतुर्ती सुप्रतरणे शोबनदाने दधातेविश्वं जगत् तेयुवामुप- ब्रुवेस्तौमि ॥ ७ ॥