मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् १०

संहिता

सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे ।
सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

पदपाठः

सूर्ये॑ । वि॒षम् । आ । स॒जा॒मि॒ । दृति॑म् । सुरा॑ऽवतः । गृ॒हे ।
सः । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

सायणभाष्यम्

आदित्यमण्डलेचतुर्थेनाङ्गुलिनाविषमादायमधुक्रुत्ययोजयित्वानिर्विषोभवेदितियदेतद्विषविद्या- यामुक्तं तदिदमत्रोच्यते—अहंविषावृतोगस्त्यः सूर्येसर्वस्यप्रेरयितरिमधुविद्यारूपेसूर्यमण्डलेविष- मावृत्यवर्तमानंसूर्येआसजामिआसक्तंकरोमि तत्रदृष्टान्तः—सुरावतोगृहेसुरानिर्मातृसदने दृतिमिव चर्ममयसुरापात्रमिव यथातत्कर्तुर्नदोषायभवति तद्वद्विषमादित्यस्यनबाधकमित्यर्थः सोचित् चि- त्पूजायां नुःप्रसिद्धौ पूज्यःससूर्यःखलुनमराति नम्रियते नोवयंमराम तदनुग्रहात्तत्रैवविषस्ययोजि- तत्वाद्बयमपिनम्रियामहै उभयोरमरणेकारणमाह—हरिष्ठाः हरयोश्वाः तेषुस्थितआदित्यः आरेदूरे- अस्यविषस्ययोजनंप्राणंचकार तदेवोच्यते हेविषत्वात्वांमधुअमृतं चकार विषस्यविषभावंदूरेपनो- द्यामृतीचकारेति एषैवमधुलामधुदात्रीनिर्विषीकर्त्रीमधुविद्या यदेतदादित्यस्यमण्डलेविषयोजनं तेनचामृतीकरणंयदस्तिएषामधुविद्या ॥ १० ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५