रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः ।
क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥
रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः ।
क्षु॒ऽमन्तः॑ । याभिः॑ । मदे॑म ॥
क्षुमंतोऽन्नवंतो वयं याभिर्गोभिः सह मदेम हृष्येम इंद्रे सधमादेऽस्माभिः सह हर्षयुक्ते सति नोऽस्माकं ता गावो रेवतीः क्षीराज्यादिधनवत्यः तुविवाजाः प्रभूतबलाश्च संतु ॥ रेवतीः रयिशब्दान्मतुपि रयेर्मतौ बहुलमिति संप्रसारणं परपूर्वत्वम् । छंदसीर इति मतुपो वत्वम् । वा छंदसीति पूर्वसवर्णदीर्घः । आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यमिति रेशब्दादुत्तरस्यापि भवतीति पूर्वमेवोक्तम् । सधमादे । मद तृप्तियोगे । चौरादिकः । सह मादयतीति सधमादः । पचाद्यच् । सध मादस्थयोश्छंदसि (पा ६-३-९६) इति सहशब्दस्य सधादेशः । थाथादिनोत्तरपदांतोदात्तत्वे प्राप्ते परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तुविवाजाः । तु इति सौत्रो धातुर्वृद्ध्यर्थः । आच इरिति इः । संज्ञापूर्वकत्वाद्गुणो न भवति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । क्षुमंतः । टुक्षु शब्दे । अस्मात्क्विपि तुगभावश्छांदसः । ह्रस्वनुड् भ्यां मतुबिति मतुप उदात्तत्वम् । मदेम । मदी हर्षे । व्यत्ययेन शप् । आदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । ततो धातुस्वरः शिष्यते ॥ १३ ॥