दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पति॑ः ।
शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शन॒ः सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ॥
दु॒रः । अश्व॑स्य । दु॒रः । इ॒न्द्र॒ । गोः । अ॒सि॒ । दु॒रः । यव॑स्य । वसु॑नः । इ॒नः । पतिः॑ ।
शि॒क्षा॒ऽन॒रः । प्र॒ऽदिवः॑ । अका॑मऽकर्शनः । सखा॑ । सखि॑ऽभ्यः । तम् । इ॒दम् । गृ॒णी॒म॒सि॒ ॥
हे इंद्र त्वमश्वस्य दुरो दातासि । तथा गोः पश्वादेर्दुरो दातासि । तथा यवस्य यवादेर्धान्यजातस्य दुरो दातासि । वसुनो निवासहेतोर्ध स्येनः स्वामी पतिः सर्वेषां पालयिता शिक्षानरः । शिक्षतिर्दानकर्मा । शिक्षाया दानस्य नेतासि । प्रदिवः पुराणः । प्रगता दिवो दिवसा यस्मिन्स तथोक्तः अकामकर्शनः । कामान्कर्शयति नाशयतीति कामकर्शनः । न कामकर्शनोऽकामकर्शनः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । हविर्दत्तवताम् । यजमानानां कामानभिमतफलप्रदानेन पूरयतीत्यर्थः । सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यंतं प्रियः । एवंभूतो य इंद्रस्तं प्रसीदं स्तोत्र लक्षणं वचो गृणीमसि ब्रूमहे ॥ दुरः । डुदाञ् दाने । मंदिवाशिमथिचतिचंक्यंकिभ्य उरच् (उ १-३८) इति विधीयमान उरच् प्रत्ययो बहुलवचनादस्मादपि भवति । अत एवाकारलोपः । शिक्षानरः । शिक्ष विद्योपादाने । गुरोश्च हलः (पा ३-३-१०३) इत्यकारप्रत्ययः । ततष्टाप् । षष्ठीसमासः । समासस्येत्यंतोदात्तत्वम् । गृणीमसि । गृ शब्दे । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । इदंतो मसिरिति मसेरिकारः ॥ २ ॥