तं गू॒र्तयो॑ नेम॒न्निष॒ः परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ ।पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥
तम् । गू॒र्तयः॑ । ने॒म॒न्ऽइषः॑ । परी॑णसः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ ।
पति॑म् । दक्ष॑स्य । वि॒दथ॑स्य । नु । सहाः । गि॒रिम् । न । वे॒नाः । अधि॑ । रो॒ह॒ । तेज॑सा ॥
गूर्तयः स्तोतारो नेमन्निषो नमस्कारपूर्वं गच्छंतः । यद्वा । नीतहविष्काः परीणसः परितो व्याप्नुवंतः । एवंगुणविशिष्टा यजमानास्तमिंद्रं स्तुतिभिरधिरोहंति । स्तुवंत इत्यर्थः । तत्र दृष्टांतः । सनिष्यवः सनिं धनमात्मन इच्छंतो वणिजो धनार्थं संचरणे संचारे निमित्तभूते सति समुद्रं न । यथा नावा समुद्रमधिरोहंति एवं स्तोतारोऽपि स्वाभिमतधनलाभायेंद्रं स्तुवंतीति भावः । हे स्तोतस्त्वं च दक्षस्य प्रवृद्धस्य विदथस्य यज्ञस्य पतिं पालयितारं सहः सहस्वंतं बलवंतमिंद्रं तेजसा देवताप्रकाशकेन स्तोत्रेण नु क्षिप्रमधि रोह । स्तुहीति यावत् । तत्र दृष्टांतः । वेनाः कांताः स्त्रियो गिरं न । यथा पर्वतं स्वाभिमतपुष्पोपचयार्थमधिरोहंति ॥ गूर्तयः । गृ शब्धे । गृणंति स्तुवंतीति गूर्तयः । क्तिच् क्तौ चेति कर्तरि क्तिच् । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । चित इत्यंतोदात्तत्वम् । नेमन्निषः । णमु प्रह्वत्व इत्यस्माच्पतरि व्यत्ययेनैत्वम् । तकारस्य नकारादःशश्च । नमंत इष्यंतींद्रं प्राप्नुमतीति नेमन्निषः । इषु गतावित्यस्मात् क्विप् चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा । णीञ् प्रापण इत्यस्मादर्तिस्तु । स्वित्यादिना मन्प्रत्ययः । बहुलवचनान्नकारस्येत्संज्ञाभावः । नीताः प्रत्ता इषो येषाम् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । परीणसः । णस कौटिल्य इत्ययं धातुर्गत्यर्थो धातूनामनेकार्थत्वात् । परितो नसंति गच्छंतीति परिणसः । क्विप्चेति क्विप् निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । उपसर्गादसमासेऽपीतिणत्वम् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । नशतिर्गतिकर्मा । अस्मात्पूर्ववत् । क्विपि शकारस्य सकारः । सनिष्यवः । षणु दान इत्यस्मादिन्सर्वधातुभ्य इति कर्मणीन्प्रत्ययः । सनिमात्मन इच्छंतीति क्यचि । सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तवैः । सुगागमोऽपि वक्तव्यः । पा ७-१-५१-३ । इति सुक् । क्याच्छंदसीत्युप्रत्ययः । नु । ऋचि तुनुघेति सांहितिको दीर्घः । सहः । अस्मादुत्तरस्य मतुपश्छांदसो लुक् ॥ २ ॥