मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६०, ऋक् १

संहिता

वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् ।
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥

पदपाठः

वह्नि॑म् । य॒शस॑म् । वि॒दथ॑स्य । के॒तुम् । सु॒प्र॒ऽअ॒व्य॑म् । दू॒तम् । स॒द्यःऽअ॑र्थम् ।
द्वि॒ऽजन्मा॑नम् । र॒यिम्ऽइ॑व । प्र॒ऽश॒स्तम् । रा॒तिम् । भ॒र॒त् । भृग॑वे । मा॒त॒रिश्वा॑ ॥

सायणभाष्यम्

वह्निमिति पंचर्चं तृतीयं सूक्तं नोधस आर्षं त्रैष्थुभमाग्नेयम् । अनुक्रांतं च । वह्निं पंचेति ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदसीदं सूक्तमाश्विने शस्त्रे च । तथा च सूत्रितम् । वह्निं यशसमुप प्रजिन्वन्निति त्रीणि (आ ४-१३) इति ॥

वह्निं हविषां वोढारं यशसं यशस्विनं विदथस्य केतुं यज्ञस्य प्रकाशयितारं सुप्राव्यं सुष्ठु प्रकर्षेण रक्षितारं दूतं देवैर्हविर्वहनलक्षणे दूत्ये नियुक्तम् । सद्यो अर्थम् । यदा हवींषि जुह्वति सद्यस्तदानीमेव हविर्भिः सह देवान्गंतारम् । यद्वा । सद्योऽर्थमरणं गमनं यस्य तम् । द्विजन्मातम् । द्वयोर्द्यावापृथिव्योररण्योर्वा जायमानं रयिमिव धनमिव प्रशस्तं प्रख्यातम् । एवं भूतमग्निं मातरिश्वा वायुर्भृगव एतत्संज्ञकाय महर्षये रातिं भरत् । मित्रमहरत् । आकरोदित्यर्थः । रातिना संभाष्येत्यत्र । आप । गृ १२-१४ । रातिर्मित्रमिति कपर्दिनोक्तम् । रातिः पुत्र इत्येके । एतदर्थप्रतिपादकं मंत्रांतरं च भवति । रातिं भृगूणामुशिजं कविक्रतुम् । ऋग्वे ३-२४ । इति ॥ वह्निम् । वहिश्रियुश्रुग्लाहात्वरिभ्यो निदिति वहतेर्निप्रत्ययः । निद्वद्भावादाद्युदात्तत्वम् । यशसम् । यशस् । शब्दादुत्तरस्य विनो लुक् । व्यत्ययेनांतोदात्तत्वम् । यद्वा । अर्शआदित्वादच् । स्वरः पूर्ववत् । सुप्राव्यम् । सुष्ठु प्रकर्षेणावति रक्षतीति सुप्रावीः । सुष्ठु प्रकर्षेणावति रक्षतीति सुप्रावीः । उपसर्गद्वयोपसृष्टादवतेरवितृस्तृतंत्रिभ्य ईः (उ ३-१५८) इतीकारप्रत्ययः । वा छंदसीत्यमि पूर्व इत्यस्य विकल्पे सति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । सद्योअर्थम् । उषिकुषिगार्तिभ्यस्थन्नित्यर्तेः कर्तरि थन् प्रत्ययः । सद्य एवार्थो गंता सद्यो अर्थः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यदि त्वव्यये ञञ्कुनिपातनामिति वक्तव्यम् । पा ६-२-२-३ । इत्यव्ययग्रहणेन त्रितयं गृह्येत तर्हि बहुव्रीहिस्वरो भविष्यति । मातरिश्वा । सर्वनिर्माणाहेतुत्वान्मातांतरिक्षम् । श्वसितिरत्र गतिकर्मा । मातर्यंतरिक्षे श्वसिति गच्छतीति माशरिश्वा । श्वन्नुक्षन्नित्यादौ निपातनाद्रूपसिद्धिः । यद्वा । मातर्यंतरिक्षे श्वाश्वसति गच्छतीति मातरिश्वा । अस गतिदीप्त्यादानेष्वित्यस्मादौणादिको ड्वन्प्रश्ययः । एतच्च यास्केनोक्तं ॥ नि ७-२६ ॥ १ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६