हि॒र॒ण्यये॑भिः प॒विभि॑ः पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान् ।
म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥                
                    हि॒र॒ण्यये॑भिः । प॒विऽभिः॑ । प॒यः॒ऽवृधः॑ । उत् । जि॒घ्न॒न्ते॒ । आ॒ऽप॒थ्यः॑ । न । पर्व॑तान् ।
म॒खाः । अ॒यासः॑ । स्व॒ऽसृतः॑ । ध्रु॒व॒ऽच्युतः॑ । दु॒ध्र॒ऽकृतः॑ । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥                
मरुतो हिरण्ययेभिः सुवर्णमयैः । यद्वा । हितरमणीयैः पविभिः रथानां चक्रैः पर्वतान्पर्ववतो मेघान् यद्वा शिलोच्चयानुज्जिघ्नंते । ऊर्ध्वं गमयंति । स्थानात्प्रच्यावयंतीत्यर्थः । तत्र दृष्टांतः । पथ्यो न । यथा पथि गच्छन्रथो मार्ग आस्थितं तृणवृक्षादिकं चूर्णीकृत्योर्ध्वं नयति गमयति । यद्वा । यथा संयुक्ता गजा मार्गस्थितं वृक्षादिकं भग्नं कुर्वंति । कीदृशा मरुतः । पयोवृधः । पयसो वृष्ट्युदकस्य वर्धयितारः । यद्वा । पृश्नेः पयसा वर्धमानाः । पृश्नियैः वै पयसो मरुतो जाताः । तै सं २-२-११-४ । इति श्रूयते । मखाः । मख इति यज्ञनाम । तद्वंतः । अयासो देवयजनदेशं प्रति गंतारः स्वसृतः शत्रून्प्रति स्वयमेव संरतो गच्छंतः ध्रुवच्युतो ध्रुवाणां निश्चलानां पर्वतादिनामपि च्यावयितारः दुध्रकृतो दुध्रं दुष्टानां धारयितारमात्मानं कुर्वाणाः । यद्वा । दुर्धरमन्यैर्धर्तुमशक्यमात्मानं कुर्वाणाः । भ्राजदृष्टयः । दीप्यमानायुधाः ॥ उज्जिघ्नंते । हंतेर्व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । गमहनेत्यादिनोपधालोपः । हो हंतेरिति घत्वम् । व्यत्ययेनांतादेशः । पथ्यः । पथि भवः । भवे छंदसीति यत् । नस्तद्धिते (पा ६-४-१४४) इति टलोपः । व्यत्ययेनांतस्वरितत्वम् । यद्वा । छंदसीवनिपाविति मत्वर्थीय ईकारः । उदात्तस्वरितयोर्यण इति विभक्तेः स्वरितत्वम् । अयासः । अय पय गतौ । अयंत इत्ययाः । पचाद्यच् । आज्जसेरसुक् । दुध्रकृतः । अत्र दुःशब्देन दुष्टा लक्ष्यंते । धृञ् धारणे । दुष्टान् धारयतीति दुध्रः । मूलविभुजादित्वात् । पा ३-२-५-२ । कप्रत्ययः । यद्वा । ईषद्दुःसुष्वितिदुःशब्द उपपदे कर्मणि खल् । गुणाभावश्छांदसः । तं कुर्वंतीति दुध्रकृतः क्विप्चेति क्विप् । रेफलोपश्छांदसः ॥ ११ ॥