मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् ९

संहिता

विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति ।
विश्वं॑ जी॒वं च॒रसे॑ बो॒धय॑न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥

पदपाठः

विश्वा॑नि । दे॒वी । भुव॑ना । अ॒भि॒ऽचक्ष्य॑ । प्र॒ती॒ची । चक्षुः॑ । उ॒र्वि॒या । वि । भा॒ति॒ ।
विश्व॑म् । जी॒वम् । च॒रसे॑ । बो॒धय॑न्ती । विश्व॑स्य । वाच॑म् । अ॒वि॒द॒त् । म॒ना॒योः ॥

सायणभाष्यम्

देवी द्योतमानोषा विश्वानि सर्वाणि भुवना भुवनानि भूतजातान्यभिचक्ष्याभिप्रकाश्य प्रकाशवंति कृत्वानंतरं प्रतीची प्रत्युङ्मुखी सती चक्षुः प्रकाशकेन तेजसोर्वियोर्वी विस्तीर्णा सती वि भाति । प्रकाशते । अपि च विश्वं जीवं सर्वं प्राणिजातं चरसे चरणाय स्वस्वव्यापारेषु प्रवर्तनाय बोधयंती निद्रातः सकाशादुद्बोधयंत्युषा विश्वस्य सर्वस्य मनायोर्मनसा युक्तस्य वाग्व्यवहार समर्थस्य प्राणिजातस्य या वागस्तितां वाचमविदत् । अलभत । अत एवोषसः सूनृतावतीति संज्ञोपपन्ना भवति ॥ अभिचक्ष्य । चक्षिङ् वृक्तायां वाचि । अयं प्रकाशनार्थोऽपि । समासेऽनञ्पूर्वे (पा ७-१-३७) इति क्त्वाप्रत्ययस्य ल्यबादेशः । प्रतीची । प्रतिपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतश्चोपसंख्यानमिति ङीप् य अच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्त निवृत्तिस्वरेण ङीप उदात्तत्वम् । उर्विया । उर्वीशब्दादुत्तरस्य सोरियाडियाजीकाराणां चोपसंख्यानम् । पा ७-१-३९-१ । इति डियाजादेशः । आदेशसामर्थ्यात्तस्य लोपो न भवति । मनायोः । मन आत्मन इच्छति मनस्यति । सुप आत्मनः क्यच् । क्याच्छंदसीत्युः । वर्णप्यापत्त्या सकार आकारः । यद्वा । कर्तुः क्यङ् सलोपश्चेति क्यङ् सकारलोपश्च । अकृत्सार्वधातुकयोरिति दीर्घः ॥ ९ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५