मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९७, ऋक् ४

संहिता

प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् ।
अप॑ न॒ः शोशु॑चद॒घम् ॥

पदपाठः

प्र । यत् । ते॒ । अ॒ग्ने॒ । सू॒रयः॑ । जाये॑महि । प्र । ते॒ । व॒यम् ।
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

सायणभाष्यम्

हे अग्ने यद्यस्मात्ते तव सूरयः स्तोतारः प्रजायंते । पुत्रपौत्रादिरूपेण बहुविधा भवंति । ततो वयं च ते तव स्तोतारः संतः प्रजायेमहि । पुत्रपौत्रादिभिरुपेता भवेम ॥ जायेमहि । प्रार्थनायां लिङ् । श्यनि ज्ञाजनोर्ज्ञेति जादेशः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः