मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११२, ऋक् ९

संहिता

नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥

पदपाठः

नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् ।
न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥

सायणभाष्यम्

हे गनपते त्वं गणेषु स्तोतृगणेषु सु सुष्थु निषीद। स्तुतिश्रवणार्थं निषण्णोभव। यतः कवीनां क्रान्तप्रज्ञानां मध्ये त्वा त्वाम् विप्रतममतिशयेन मेधाविनमित्याहुः। किञ्च त्वदृते। अन्यारादितरर्ते। पा. २-३-२९। इति पञ्चमी। त्वां वर्जयित्वा किं चन कर्मारे दूरे समीपे वा न क्रियते। तस्मान्निषीद। ततो हे मघवन्धनवन्निन्द्र महां महान्तमर्कमर्चनीयमस्मदीयं त्रिवृत्पञ्चदशादि लक्षनं स्तोमम् चित्रं नानारूपं कृत्वार्च। पूजय । विधेहि। अर्च पूजायां भौवादिकः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३