अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥
अ॒यम् । मे॒ । हस्तः॑ । भग॑ऽवान् । अ॒यम् । मे॒ । भग॑वत्ऽतरः ।
अ॒यम् । मे॒ । वि॒श्वऽभे॑षजः । अ॒यम् । शि॒वऽअ॑भिमर्शनः ॥
अनया बन्ध्वादयो लब्धजीवं सुबन्धुं पाणिभिरस्पृशन्। अयं मे हस्तो भगवा यस्मात्सजीवं सुबन्धुम् स्पृशति तस्मात्। तथायं मे हस्तो भवत्तरः। अतिशयेन भगवान्। तथायं मे हस्तो विश्वभेषजो जीवचिकित्सासाधनसर्वौषधवान् तत्स्थानीयो वा। अयं शिवाभिमर्शनो मङ्गलस्पर्शनः। यतो जीवन्तं स्पृशत्यत इत्यर्थः॥१२॥