उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने॑व चरति द्वि॒जानि॑ः ।वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स॑म् ॥
उ॒भे इति॑ । धुरौ॑ । वह्निः॑ । आ॒ऽपिब्द॑मानः । अ॒न्तः । योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानिः॑ ।
वन॒स्पति॑म् । वने॑ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख॑नन्तः । उत्स॑म् ॥
हविर्धानशकटस्योभे धुरावापिब्दमान आपिशब्दमानो वह्निर्हविर्वाहकोऽनवान् योनावन्तरिव द्विजानिर्द्विजायः। तयोरन्तश्चरति। तं वनस्पतिं वनस्पतिविकारं शकटं वने वनसम्बन्धिनि वृक्शे। मेथीभूत इत्यर्थः। तत्रास्थापयध्वम्। यद्वा। वने वननीये देश आस्थापयध्वम्। तत्पश्चात्तत्रत्यं सोमं सु सुष्ठु नि दधिध्वम्। सुखं यथा भवति तथा स्थापयतासंद्याम्। अभिषवपदेशे च पश्चादुत्सं तद्रसमखनन्तः सम्पादयतेत्यर्थः। अथवायमपि मन्त्रः कर्षणपरो व्याख्येयः। यस्य लाङ्ग्लस्योभे धुरावापिब्दमानोऽपिशब्दमानो वह्निरनवान् अन्तर्योनानिवेत्यादि समानम्। तादृशं वनस्पतिं वनस्पतिविकारं लाङ्ग्लं वने वननीये वपनार्थं कर्षनप्रदेश आस्थापयध्वम्। सु सुष्ठु सर्वत्र तम् लाङ्गलं नि दधिध्वम्। उत्सं सेकसाधनं गर्तं सिक्तं वा प्रदेशमखनन्तः॥११॥