मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् ५

संहिता

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑र॒ः प्रवी॑र॒ः सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥

पदपाठः

ब॒ल॒ऽवि॒ज्ञा॒यः । स्थवि॑रः । प्रऽवी॑रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः ।
अ॒भिऽवी॑रः । अ॒भिऽस॑त्वा । स॒हः॒ऽजाः । जैत्र॑म् । इ॒न्द्र॒ । रथ॑म् । आ । ति॒ष्ठ॒ । गो॒ऽवित् ॥

सायणभाष्यम्

सर्वस्य भूतस्य बलं विजानातीति बलविज्ञायः। यद्वा। बलं ममायमिति सर्वैर्बलत्वेन विज्ञायत इति बलविज्ञायः। सर्वस्य बलभुत इत्यर्थः। स्थविरो महान् प्रवीरः प्रकर्षेण वीरः सहस्वान् पराभिभवसामर्थ्यवान् वाजी वेजनवान् अन्नवान्वा सहमानः शत्रूणामभिभवितोग्र उद्गूर्णबलोऽभिवीरः। अभिगता वीरा वीर्यवन्तोऽनुचरा यस्य स तथोक्तः। अभिसत्वाभिगतसत्वा सहोजाः सहसो बलज्जातः एवं महानुभवस्त्वं हे इन्द्र जैत्रं जयशीलं रथमा इत्ष्ठ। अस्मत्सहायार्थमारोढुमर्हसि। त्वं च गोविदुदकस्य स्तुतेर्वा लब्धा वेदिता वा॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२