स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिम् ।
उप॑ भूषन्ति॒ गिरो॒ अप्र॑तीत॒मिन्द्रं॑ नम॒स्या ज॑रि॒तुः प॑नन्त ॥
स॒हस्र॑ऽवाजम् । अ॒भि॒मा॒ति॒ऽसह॑म् । सु॒तेऽर॑णम् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् ।
उप॑ । भू॒ष॒न्ति॒ । गिरः॑ । अप्र॑तिऽइतम् । इन्द्र॑म् । न॒म॒स्याः । ज॒रि॒तुः । प॒न॒न्त॒ ॥
सहस्रवाजमपरिमितान्नमपरिमितबलं वाभिमातिषाहमभिमातीनां सर्वतो हिंसकानां शत्रूणामभिभवितारं सुतेरणमभिषुते सोमे रममाणं मघवानं धनवन्तं सुवृक्तिं शोभनस्तुतिकमप्रतितं युद्धेऽनैरप्रतिगतमिन्द्रं गिरः स्तुतिरूपा वाच उप भूशन्ति। अलङ्कुर्वन्ति। तदेवाह। जरितुः स्तोतुर्नमस्याः स्तुतयः पनन्त। स्तुवन्ति॥७॥