मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०८, ऋक् ११

संहिता

दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीरृ॒तेन॑ ।
बृह॒स्पति॒र्या अवि॑न्द॒न्निगू॑ळ्हा॒ः सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्रा॑ः ॥

पदपाठः

दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ ।
बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑णः । ऋष॑यः । च॒ । विप्राः॑ ॥

सायणभाष्यम्

हे पणयह् यूयं वरीय उरुतरम् दूरं दूरदेशमित। गच्छत। युश्माभिरपहृता गाव ऋतेन सत्येन मिनतीर्मिनत्यो द्वारस्य पिधायकं पर्वतं हिंसत्यो विदारयन्त्य उद्यन्तु। तस्मादुद्गच्छन्तु। यद्वा। मिनतीः। व्यत्ययेन कर्मणि शतृ। मीयमाना युश्माभिर्बाध्यमानास्ता गावः। सुब्व्यत्ययः। गा रुतेन स्तुतिभिर्गन्तव्येनेन्द्रेण सहायेन बृहस्पत्यादय उद्यन्तु। पर्वतादुद्गमयन्तु। निगूढा नितरां स्थापिता या गा बृहस्पतिरविन्दत् लप्स्यते तथा सोमस्तदभिषवकारिणो ग्रावाणश्च विप्रा मेधाविन ऋषयोऽङ्गिरसश्च लप्स्यन्ते। विद्लृलाभे तौदादिकः। तस्माच्छन्दसि लुङ् लुङ् लिट् इति भविष्यदर्थे लङ्। शे मुचादीनामिति नुमागमः॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः