मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२१, ऋक् ९

संहिता

मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

पदपाठः

मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ ।
यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

सायणभाष्यम्

स प्रजापतिर्नोऽस्मान्मा हिंसीत्। मा बाधताम्। यः पृथिव्या भूमेर्जनिता जनयिता स्रष्टा। जनिता मन्त्र इति णिलोपो निपात्यते। उदात्तयणो हल्पूर्वादिति पृथिवीशब्दाद्विभक्तेरुदात्तत्वम्। यो वा यश्च सत्यधर्मा सत्यमवितथं धर्म जगतो धारनं यस्य स तादृशः प्रजापतिर्दिवमन्तरिक्षोपलक्षितान्सवाल्लोकाञ्जजान जनयामस। जनी प्रादुर्भावे। णिचि वृद्धौ जनीजॄष्क्न सुरञ्जः। धा. १९-६३-६७। इति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वम्। ततो लिट्यमन्त्रे। पा. ३-१-३५। इति निषेधादाम्प्रत्ययाभावे तिपो णलि वृद्धौ लितीति प्रत्ययात्पूर्वस्योदात्तत्वम्। यश्च बृहतीर्महतीश्चन्द्रा आह्लादिनीरप उदकानि जजान जनयामास। ऊडिदमित्यादिनाप्यब्दादुत्तरस्य शस उदात्तत्वम्। तस्मै कस्मा इत्यादिगतम्॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः