<<<<<<< HEAD ======= >>>>>>> 2fcb1a1b3266574a26687eaa824a98e1c7bfa18e

मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६१, ऋक् ४

संहिता

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्ताञ्छ॒तमु॑ वस॒न्तान् ।
श॒तमि॑न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पति॑ः श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥

पदपाठः

श॒तम् । जी॒व॒ । श॒रदः॑ । वर्ध॑मानः । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।
श॒तम् । इ॒न्द्रा॒ग्नी इति॑ । स॒वि॒ता । बृह॒स्पतिः॑ । श॒तऽआ॑युषा । ह॒विषा॑ । इ॒मम् । पुनः॑ । दुः॒ ॥

सायणभाष्यम्

हे यक्ष्माद्विमुक्त वर्धमानोऽहरहरभिवृद्धिं प्राप्नुवंस्त्वं शतं शरदः शतसंख्याकाञ्शरदृतूञ्जीव। प्राणान्धारय। पूर्ववदत्यन्तसंयोगे द्वितीया। शतं हेमन्तान् हेमन्तर्तूंश्च जीव शतं वसन्तांश्च। उशब्दः समुच्चये। अपि चेन्द्राग्नी इन्द्राश्चाग्निश्च सविता प्रेरको देवस्च बृहस्पतिर्बृहताम् देवानां पालयिता देवश्च शतायुषा शतसंवत्सरपरिमितस्यायुषो हेतुभूतेन हविषा तर्प्यमाणाः सन्त इमं जनं पुनर्दुः। पुनरस्मभ्यं प्रादुः॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९