या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः ।ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥
याः । रुचः॑ । जा॒तऽवे॑दसः । दे॒व॒ऽत्रा । ह॒व्य॒ऽवाह॑नीः ।
ताभिः॑ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥
जातवेदसोऽग्नेर्या रुचो रोचमानाः कालीकरालीप्रभृतयः सप्तजिह्वा देवता देवान्प्रति। देवमनुष्यपुरुषपुरुमर्त्येभ्य इत्यादिना द्वितीयार्थे त्राप्रत्ययः। हव्यवाहनीर्हव्यानां हविषाम् वोढ्र्यः प्रापयित्र्यो भवन्ति। वा छन्दसीति जसि पूर्वसवर्णदीर्घः। ताभिर्जिह्वाभिर्नोऽस्माकं यज्ञं यागसाधनं हविरिन्वतु। देवान्प्रापयतु। इवि व्याप्तौ। इदित्त्वान्नुम्॥३॥