यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कम् ।तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
यत् । ते॒ । स॒मु॒द्रम् । अ॒र्ण॒वम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥
हे सुबन्धो यत्ते मनोऽवर्णवम् । अर्णांस्युदकानि। तद्वन्तं समुद्रं मेघं वा जगाम तदावर्तयामः॥५॥