<<<<<<< HEAD ======= >>>>>>> 2fcb1a1b3266574a26687eaa824a98e1c7bfa18e

मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् ११

संहिता

र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।
गोभि॑ः ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥

पदपाठः

र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः ।
गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥

सायणभाष्यम्

संदृष्टौ सन्दर्शने रण्वो रमणीयो मरुद्गणः पितुमानिवान्नवानिव क्षयो निवासः स्तोतॄणाम् भवति। रुद्रानां रुद्रपुत्राणां तेषां मरुतामुपस्तुतिरनुग्रहबुद्धिर्भद्रा कल्याणी भवति। तस्माज्जनेषु जनानाम् मध्ये वयं गोभिर्गवादिभिर्यशसो यशस्विनः स्याम। भवेम। अनन्तरं हे देवासो देवाः युष्मान्सदा सर्वदेलयान्नेन हविर्लक्षणेन सचेमहि। सचेम। सङ्गच्छेम॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः