सा॒ध्व॒र्या अ॑ति॒थिनी॑रिषि॒राः स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः ।
बृह॒स्पति॒ः पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्य॑ः ॥                
                    सा॒धु॒ऽअ॒र्याः । अ॒ति॒थिनीः॑ । इ॒षि॒राः । स्पा॒र्हाः । सु॒ऽवर्णाः॑ । अ॒न॒व॒द्यऽरू॑पाः ।
बृह॒स्पतिः॑ । पर्व॑तेभ्यः । वि॒ऽतूर्य॑ । निः । गाः । ऊ॒पे॒ । यव॑म्ऽइव । स्थि॒विऽभ्यः॑ ॥                
साध्वर्याः साधूनां कल्याणानां पयसां नेत्रिरतिथिणीः सततं गच्छन्तीरिषिरा एशणीयाः स्पार्हाः स्पृहणीयाः सुवर्णाः शोभनशुक्लादिवर्णोपेता अनवद्यरूपाः प्रशस्यरूपा एता गाः पर्वतेभ्यो वलसंबन्धिभ्यो वितूर्य निर्गमय्योपे। देवसमीपे निर्वपति। प्रापयति। तत्र दृष्टान्तः। यवमिव यथा यवं स्थिविभ्यः कुसिदेभ्य आदाय निर्वपति। डुवप् बीजसन्ताने। लिटि रूपम्। यद्वा। साधुनयनादि गुणयुक्ता गाः अपः पर्वतेभ्यो मेघेभ्य आहृत्य सर्वत्र वर्षति॥३॥