सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते ।
दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभि॑ः ॥
सु॒न्वन्ति॑ । सोम॑म् । र॒थि॒रासः॑ । अद्र॑यः । निः । अ॒स्य॒ । रस॑म् । गो॒ऽइषः॑ । दु॒ह॒न्ति॒ । ते ।
दु॒हन्ति॑ । ऊधः॑ । उ॒प॒ऽसेच॑नाय । कम् । नरः॑ । ह॒व्या । न । म॒र्ज॒य॒न्ते॒ । आ॒सऽभिः॑ ॥
रथिरासो रथवन्तो रंहणवन्तोऽद्रयो ग्रावाणः सोमं सुन्वन्ति। ग्रावाणोऽस्य सोमस्य रसं निर्दुहन्ति। निःशेषेण दुहन्ति गविषः स्तुतिवाचमिच्छन्तः सन्तः। दुहंत्यूधा रसं सोमसम्बन्धिनम्। किमर्थम् । उपसेचनायाग्नेः। कमिति पादपूरणः। नरो नेतारोऽभिषवकर्तार ऋत्विजो हव्या हवींषि जाग्न्युपसेचनानन्तरमासभिः स्वास्यैर्मर्जयन्ते। शोधयन्ति। शेषभक्षणेन शुद्धीकुर्वन्ति। यद्वा। अग्नौ होतुर्दशपवित्रात्पुरासभिरास्योपलक्षितैः स्तोत्रैर्मर्जयन्ते॥७॥