मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १६

संहिता

पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् ।
इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥

पदपाठः

पु॒रूणि॑ । हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्मा॑णि । मन्द॑न् । गृ॒ण॒ताम् । ऋषी॑णाम् ।
इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहू॑तिम् । ति॒रः । विश्वा॑न् । अर्च॑तः । या॒हि॒ । अ॒र्वाङ् ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां जनानां सम्बन्धीनि पुरूणि बहूनि सवना सवनानि ब्रह्मानि स्तोत्राणि च मन्दन्। स्तुवन्ति मोदयन्ति व गृणतां स्तुवतामृषीणामिमां सहूतिं स्तुतिं त्वमाघोषन् महती शब्दवती चेयं स्तुतिरिति वदन्नर्चतः स्तुवतोऽन्यान्विश्वान्सर्वानपि तिरस्तिरस्कृत्यावसा रक्षणेन सहार्वाङ्स्मदभिमुखं याहि। गच्छ॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६