मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९९, ऋक् ३

संहिता

स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥

पदपाठः

सः । वाज॑म् । याता॑ । अप॑दुःऽपदा । यन् । स्वः॑ऽसाता । परि॑ । स॒द॒त् । स॒नि॒ष्यन् ।
अ॒न॒र्वा । यत् । श॒तऽदु॑रस्य । वेदः॑ । घ्नन् । शि॒श्नऽदे॑वान् । अ॒भि । वर्प॑सा । भूत् ॥

सायणभाष्यम्

वाजं शूरैर्गन्तव्यं सङ्ग्रामं याता स इन्द्रः । न लोकाव्ययेति षष्ठी प्रतिषेधः। अपदुष्पदापगतदुष्टपतनेन यन् गच्छन् सनिष्यंस्तत्र शत्रुधनानि सम्भक्तुमिच्छन् परि षदत्। परिषीदति। कुत्रेति उच्यते। स्वर्षाता स्वर्षातौ सर्वलाभोपेते सङ्ग्रामे। किञ्चानर्वा युद्धेऽक्प्रत्युत इन्द्रः शतदुरस्य शत्रुपुरस्यान्तर्निहितं यद्वेदो धनमस्ति तद्धनं वर्पसावरकेण बलेनाभि भुत्। अभिभवति। किं कुर्वन्। शिश्नदेवानब्रह्मचर्याञ्शतद्वारेषु शत्रुपुरसम्बन्धिषु वर्तमानान् घ्नन् हिंसन्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४