मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ५, ऋक् २

संहिता

आ यस्मि॑न्त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ ।म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥

पदपाठः

आ । यस्मि॑न् । स॒प्त । र॒श्मयः॑ । त॒ताः । य॒ज्ञस्य॑ । ने॒तरि॑ ।
म॒नु॒ष्वत् । दैव्य॑म् । अ॒ष्ट॒मम् । पोता॑ । विश्व॑म् । तत् । इ॒न्व॒ति॒ ॥

सायणभाष्यम्

यज्ञस्यनेतरियागस्यनिर्वाहकेयस्मिन्नग्नौसप्तरश्मयः सप्तसंख्याकारश्मिवद्भ्याप्ताहोत्रकाः आत- ताः स्वस्वकर्मभिःसर्वतोव्याप्ताभवन्ति सपोतापावकोदेवानांपोत्राख्यऋत्विग्रूपोवाग्निर्मनुष्वत् मनुष्यपोतृवत् दैव्यंदेवोयज्ञस्तत्संबन्धिअष्टममष्टर्त्विक्संबन्धितद्विश्वंकर्तव्यजातं सप्तहोत्रकैः सह- स्वयमष्टमःसन् इन्वति व्याप्नोति यद्वा तदित्यस्यलिङ्गव्यत्ययः सपोतेतिसंबन्धः सप्तहोत्रकैः स- हाष्टमोभूत्वातद्वद्यज्ञंनिर्वहतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६