मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् ६

संहिता

मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि ।
द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥

पदपाठः

मि॒त्रस्य॑ । च॒र्ष॒णि॒ऽधृतः॑ । अवः॑ । दे॒वस्य॑ । सा॒न॒सि ।
द्यु॒म्नम् । चि॒त्रश्र॑वःऽतमम् ॥

सायणभाष्यम्

अभिप्लवषडहे दशरात्रे च सप्तदशैकविंशादिस्तोमे सति होत्रादिकशस्त्रेष्वावापस्थाने पञ्चसप्तादिसंख्याका ऋच आवपनीयाः । तत्र मैत्रावरुणशस्त्रे मित्रस्य चर्षणी धृत इत्याद्याश्चतस्र आवापार्था । सूत्रितं च । मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्यः । आ. ७-५ ॥ इति ॥

चर्शणीधृतो मनुष्याणां वृष्टिप्रदानेन धारकस्य मित्रस्य देवस्य सञ्जन्ध्यवोऽन्नं सानसि सर्वैः सम्भजनीयं द्युम्नं तदीयं धनं च चित्रश्रवस्तमम् । अतिशयेन चायनीयकीर्तियुक्तम् । सानसि । सनोतेः सानसिपर्णसीत्यादिनासिच् प्रत्ययान्तत्वेन निपातनादुपधावृद्धिः । चित्त्वादन्तोदात्तः । स्वमोरिति स्वमोर्लुक् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः