मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् १७

संहिता

आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ।
प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥

पदपाठः

आ । दे॒वाना॑म् । अ॒भ॒वः॒ । के॒तुः । अ॒ग्ने॒ । म॒न्द्रः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ।
प्रति॑ । मर्ता॑न् । अ॒वा॒स॒यः॒ । दमू॑नाः । अनु॑ । दे॒वान् । र॒थि॒रः । या॒सि॒ । साध॑न् ॥

सायणभाष्यम्

हेअग्ने मन्द्रः स्तुत्यः केतुर्यज्ञेषुदेवानां प्रज्ञापकस्त्वं आभवः आसमन्ताद्भवसि सर्वव्यापको- भवसीत्यर्थः किंच विश्वानि सर्वाणिकाव्यानिय्जमानादिभिःकृतानि स्तोत्राणिविद्वान् जानन् दमूनादान्तमनाः त्वंमर्तान् मर्त्यान् स्तोतॄन् स्वाभिलषितवस्तुसंपादनेनप्रीतान् विधाय गृहेषु प्रत्यवासयः प्रतिवासयसि रथिरः रथी त्वं साधन् देवानांहितानिकर्माणिसाधयन् देवान् अनु यासिच अनुगच्चसिच ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६