न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसम् ।
र॒थीरृ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥
न॒म॒स्यत॑ । ह॒व्यऽदा॑तिम् । सु॒ऽअ॒ध्व॒रम् । दु॒व॒स्यत॑ । दभ्य॑म् । जा॒तऽवे॑दसम् ।
र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । विऽच॑र्षणिः । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः ॥
रथीर्नेताबृहतोमहतः ऋतस्ययज्ञस्यविचर्षणिः द्रष्टायोग्निः देवानांपुरोहितः पुरस्ताद्द्रष्टव्यतया स्थापितोभवत् हव्यदातिं देवेभ्योहविषांदातारं स्वध्वरं शोभनयज्ञं दम्यं दमेभ्योगृहेभ्य़ोहितं जातवेदसं जातप्रज्ञं तमग्निं नमस्यतपूजयत दुवस्यतपरिचरत ॥ ८ ॥