आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् ।
इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥
आ । तु । भ॒र॒ । माकिः॑ । ए॒तत् । परि॑ । स्था॒त् । वि॒द्म । हि । त्वा॒ । वसु॑ऽपतिम् । वसू॑नाम् ।
इन्द्र॑ । यत् । ते॒ । माहि॑नम् । दत्र॑म् । अस्ति॑ । अ॒स्मभ्य॑म् । तत् । ह॒रि॒ऽअ॒श्व॒ । प्र । य॒न्धि॒ ॥
हे इन्द्र तु क्षिप्रं धनमा भर । एतत्त्वय दीयमानं धनं माकिः को वा परि ष्ठात् । प्रतिबध्य तिष्ठेत् । त्वा त्वां वसूनां धनानां वसुपतिमुत्तमस्य धनस्य स्वामिनम् विद्म हि । जानीमः खलु । ते तव माहिनं महनीयं यद्दत्रं धनमस्ति हे यर्यश्व दद्धनमस्मभ्यं प्र यन्धि । प्रयच्छ । तु । ऋचि तुनुघेत्यादिना संहितायां दीर्घः । भर । भरतेर्लोटि रूपम् । माकिः । विपातः । स्थात् । तिष्ठतेश्छान्दसे लुङिरूपम् । उपसर्गात्सुनोतीत्यादिना संहितायां षत्वम् । निघातः । विद्म वेत्तेर्लटि विदो लटो वेति मसो मादेशः । प्रत्ययस्वरः । सम्हितायां द्व्यचोऽतस्तिङ इति दीर्घः । वसुपतिम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरः । माहिनम् । महेरिनण् चेतीनण्प्रत्ययः । णित्त्वादुपधावृद्धिः । ग्रामादित्वादाद्युदात्तः । यन्धि । यमु उपरमे । लोटि बहुलं छन्दसीति शपो लुक् । सेर्हिः । तस्य वा छन्दसीति पित्त्वस्य विकल्पितत्वादत्राङित्त्वादङितश्चेति हेर्ध्यादेशः निघातः ॥ ९ ॥