मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ३

संहिता

यु॒वोरृ॒तं रो॑दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू॑तम् ।इ॒दं दि॒वे नमो॑ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥

पदपाठः

यु॒वोः । ऋ॒तम् । रो॒द॒सी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । म॒हे । सु । नः॒ । सु॒ऽवि॒ताय॑ । प्र । भू॒त॒म् ।
इ॒दम् । दि॒वे । नमः॑ । अ॒ग्ने॒ । पृ॒थि॒व्यै । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥

सायणभाष्यम्

हे रोदसी द्यावापृथ्व्यौ युवोर्युवयोरृतमानृशंस्यं सत्यं यथार्थमस्तु । युवां नोऽस्माकं महे महते सुवितायाभ्युदयाय यज्ञसमाप्त्यर्थं सु सुष्ठु प्र भूतम् । प्रभवतम् । हे अग्ने दिवे पृघिव्यै चेदं नमोऽस्तु । प्रयसा हविर्लक्षणेनान्नेन सपर्यामि परिचरामि । रत्नमुत्तमं धनं यामि । याचे । यातिर्याञ्चाकर्मा ईमह इत्यादिषु पठितत्वात् । षु । संहितायां सुञ इति षत्वम् । णः । संहितायां नश्च धातुस्थोरुषभ्य इति णत्वम् । सुविताय इण् गतौ । आधिकरणे क्तः । शोभनं गम्यतेऽस्मिन्निति सुवितम् । उवङादेशश्छान्दसः । भूतम् । भवतेस्थेति लुक् । निघातः । दिवे पृघिव्यै । नमःस्वस्तीत्यादिना । पा. २-३-१६ । चतुर्थी । सपर्यामि कण्ड्वादिः परिचरणे वर्तते । प्रत्ययस्वरः । यामि । यतेर्लटि रूपम् । वाक्यभेदादनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४