बृह॑स्पत इन्द्र॒ वर्ध॑तं न॒ः सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे ।
अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
बृह॑स्पते । इ॒न्द्र॒ । वर्ध॑तम् । नः॒ । सचा॑ । सा । वा॒म् । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ।
अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥
हे बृहस्पते हे इन्द्र युवां नोऽस्मान्वर्धतम् । वर्धयतम् । प्रवृद्धान्कुरुतम् । सा सुमतिर्युवयोरनुग्रहबुद्धिरस्मे अस्मासु सचा सह भूतु । भवतु । धियः कर्माण्यविष्टम् । रक्षतम् । पारं नयतम् । पुरन्धीः पुरं शरीरं धीयते स्थाप्यते याभिर्मतिभिस्ताः स्तुतीर्जिगृतम् । प्रबुद्ध्यतम् । वनुषां सम्भक्तॄणामस्माकमर्यो तन्त्रीररातीः । शत्रूनित्यर्थः । जजस्तम् । युध्यतम् । क्षपयतमित्यर्थः । च्छन्दस्यरातिशब्दः स्त्रीलिङ्गः । एवं स्तुतिं निगमय्याभीष्टं प्रार्थतवान् ॥ ११ ॥
वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन् ।
पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
श्रीमत्सायण मन्त्रीशो दाशतय्यास्तृतीयके ।
अश्टके सप्तमाध्यायं व्याकार्षीदतिपेशलम् ॥