ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा॑नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं॑षि ।
ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥                
                    ऋ॒तस्य॑ । दृ॒ळ्हा । ध॒रुणा॑नि । स॒न्ति॒ । पु॒रूणि॑ । च॒न्द्रा । वपु॑षे । वपूं॑षि ।
ऋ॒तेन॑ । दी॒र्घम् । इ॒ष॒ण॒न्त॒ । पृक्षः॑ । ऋ॒तेन॑ । गावः॑ । ऋ॒तम् । आ । वि॒वे॒शुः॒ ॥                
वपुषे वपुश्मतः । षष्ठ्यर्थे चतुर्थी । ऋतस्य ऋतदेवस्य सम्बन्धीनि दृळ्हा दृढानि धरुणानि धारकाणि पुरूणि बहूनि चन्द्रा चन्द्राण्याह्लादकानि वपूंषि रूपाणि सन्ति । भवन्ति । ऋतेन ऋतदेवेन दीर्घमत्यधिकं पृक्षोऽन्नमिशणन्त । स्तोतार इच्छन्ति । ऋतेन ऋतदेवेन गावो धेनव ऋतं यज्ञम् दक्षिणात्वेना विवेशुः । प्रविशन्ति । यद्वा । गावो रश्मय ऋतमुदकमा विवेशुः ॥ ९ ॥