मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २९, ऋक् ३

संहिता

श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मन्द॒यध्यै॑ ।उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इन्द्र॑ः सुती॒र्थाभ॑यं च ॥

पदपाठः

श्र॒वय॑ । इत् । अ॒स्य॒ । कर्णा॑ । वा॒ज॒यध्यै॑ । जुष्टा॑म् । अनु॑ । प्र । दिश॑म् । म॒न्द॒यध्यै॑ ।
उ॒त्ऽव॒वृ॒षा॒णः । राध॑से । तुवि॑ष्मान् । कर॑त् । नः॒ । इन्द्रः॑ । सु॒ऽती॒र्था । अभ॑यम् । च॒ ॥

सायणभाष्यम्

हे स्तोतस्त्वमस्येन्द्रस्य सम्बन्धिनौ कर्णा कर्णौ वाजयध्या इन्द्रं बलिनं कर्तुं जुष्टामनु दिशं सेवितासु सर्वासु दिक्शु प्र मन्दयध्यै प्रकर्षेणेन्द्रं मादयितुं च श्रवय । स्तोत्राणि श्रावय । इदिति पूरणः । उद्ववृषाणः सोमेनोत्सिच्यमानस्तुविष्मान्बलवानिन्द्रो नोऽस्माकं राधसे धनार्थं सुतीर्था शोभनानि तीर्थान्यभयं च भयराहित्यं च करत् । करोतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८