क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ ।
क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रव॒ः कद॑र्य॒म्णे कद्भगा॑य ॥
क॒था । ह॒ । तत् । वरु॑णाय । त्वम् । अ॒ग्ने॒ । क॒था । दि॒वे । ग॒र्ह॒से॒ । कत् । नः॒ । आगः॑ ।
क॒था । मि॒त्राय॑ । मी॒ळ्हुषे॑ । पृ॒थि॒व्यै । ब्रवः॑ । कत् । अ॒र्य॒म्णे । कत् । भगा॑य ॥
हे अग्ने त्वं तदस्मदीयं पापं वरुणाय कथा गर्हसे । केन हेतुना गर्हापुर्वमावेदयेः । हेति पूरणः । दिवे द्युलोकाय द्योतमानाय सूर्याय वा कथा कथं तत्पापमावेदयेः । सोऽस्माकमागस्तत्पापं कत्किमस्ति त्वत्परिचरणान्नास्तीत्यर्थः । तथा मीळ्हुषेऽभिमतफलसेक्त्रे मित्राय पृथिव्यै च कथा ब्रवः । कथमागोब्रूयाः । अर्यम्णे देवाय भगायैतन्नामकाय च देवाय कत्कथं ब्रूयाः । कथा । किशब्दात्था हेतौ च छन्दसीति थाप्रत्ययः । प्राग्दिशो विभक्तिइति विभक्तिसंज्ञायां किमः कः । पा. ७-२-१०२ । इति कादेशः । मीळ्हुषे । मिह सेचने । क्वसौ दाश्वान् साह्वान् मीढ्वांश्चेति निपातितः । ब्रवः । ब्रूञ् व्यक्तायां वाचि । लेटि लेटोऽडाटावित्यडागमः । पादादित्वादनिघातः । आगमस्यानुदात्तत्वाद्धातुस्वरः ॥ ५ ॥