मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४७, ऋक् ३

संहिता

वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती ।
नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥

पदपाठः

वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ ।
नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे वायो त्वमिन्द्रश्च हे शवसस्पती बलस्य पती शुष्मिणा बलवन्तौ नियुत्वन्ता नियुत्सञ्ज्ञिकाश्ववन्तौ युवां सरथं समानमेव रथमारुह्येति शेषः । न ऊतये रक्षणाय सोमपितये सोमपानायात्रा यातम् । आगच्छतम् । यद्वा । सरथमधितिष्ठतमारुह्य चायातमिति च वाक्यद्वयं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३