दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।
न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥
दे॒वैः । नः॒ । दे॒वी । अदि॑तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र॑ऽयुच्छन् ।
न॒हि । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । अर्हा॑मसि । प्र॒ऽमिय॑म् । सानु॑ । अ॒ग्नेः ॥
अतितिर्देव्यदीना देवमाता देवैरन्यैर्मित्रादिभिः सह नोऽस्मान्नि पातु । पालयतु । तथा त्राता पालको देवः । इन्द्र इत्यर्थः । सोऽप्यप्रयुच्छन् अप्र्माद्यन् त्रायताम् । वयं च मित्रस्य वरुणस्याग्नेश्च सानु समुच्छ्रितं धासिमन्नं सोमादिलक्षणं प्रमियं हिंसितुं नह्यर्हामसि । आर्हामः । समर्था भवामः । किन्त्वनुष्ठानेन सम्वर्धितुमर्हाम इत्यर्थः ॥ ७ ॥