मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ५

संहिता

ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥

पदपाठः

ए॒ताः । अ॒र्ष॒न्ति॒ । हृद्या॑त् । स॒मु॒द्रात् । श॒तऽव्र॑जाः । रि॒पुणा॑ । न । अ॒व॒ऽचक्षे॑ ।
घृ॒तस्य॑ । धाराः॑ । अ॒भि । चा॒क॒शी॒मि॒ । हि॒र॒ण्ययः॑ । वे॒त॒सः । मध्ये॑ । आ॒सा॒म् ॥

सायणभाष्यम्

एता आपो घृतधारा वार्षन्ति । अधः पतन्ति । शतव्रजा अपरिमितगतयः सत्यो हृद्याद्धृदयङ्गमात्समुद्रादन्तरिक्षाद्रिपुणा जलमोकप्रतिबन्धकारिणा शत्रुना वृत्रेण नावचक्शे न अवदर्शनाय यथादृष्टं भवति तथार्षन्ति । ता घृतस्य धारा अभि चाकशिमि । अभिपश्यामि । कुत्रेति तदुच्यते । हिरण्ययो हिरण्मयो वेतसोऽप्सम्भवोऽग्निर्वैद्युत आसामपां मध्ये वर्तत इति शेशः । अत्र घृतस्य धारा अभिचाकशीमीत्यनेन चरमपादेन होमाधारोऽग्निर्वैद्युतोऽग्निरादित्यो वोक्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०