प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मु॑ञ्चथः ।
युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्व॑ः ॥
प्र । च्यवा॑नात् । जु॒जु॒रुषः॑ । व॒व्रिम् । अत्क॑म् । न । मु॒ञ्च॒थः॒ ।
युवा॑ । यदि॑ । कृ॒थः । पुनः॑ । आ । काम॑म् । ऋ॒ण्वे॒ । व॒ध्वः॑ ॥
च्यावानादृषेः जुजुरुषोजरसाजीर्णात्सकाशाद्वव्रिं हेयं पुराणं रूपं अत्कंन कवचमिव प्रमुंचथः प्रमुंचतं प्रामुंचतं द्रापिमिवच्यवाना- दित्यादिमंत्रान्तरम् । यदि यदा पुनः युवाकृथः युवानं कुरुथइत्यार्थः तदावध्वः सुरूपायाःस्त्रियः कामं कमनीयंरूपमाऋण्वे प्राप्तवान् ॥ ५ ॥