वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।
अत्रा॑ दा॒सस्य॒ नमु॑चे॒ः शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥
वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । सम्॒ऽच॒का॒नः ।
अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥
हेमघवन् धनवन्निन्द्र संचकानः अस्माभिःस्तूयमानस्त्वं संपूर्वः कायतिः शब्दकर्मा तस्यलडर्थेलिटिरूपं दानं देवानांबाधकंवृत्रमसुरंगवावज्रेणइन्वन् प्रेरयन् हिंसन् जनुषाजन्मनामृधः तदनुचरान् राक्षसादीन् शत्रून् सु सुष्टु व्यहन् विजघन्थ इन्द्रस्यासुराः जन्माअरभ्य शत्रवइत्यर्थःहेइन्द्र त्वं अत्रास्मिन्युद्धे मनवे नमुचिनापहृतगोधनायमह्यंगातुंसुखमिच्छन् अभिलषन् नमुचेरेतन्नामकस्य दासस्य उपक्षपयितुरसुरस्यसंबन्धिशिरः शीर्षं यद्यदाअवर्तयः अचूर्णयः तदाशत्रून्विजघन्थेतिपूर्वेणसंबन्धः ॥ ७ ॥