प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑ ।
सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भि॒ः क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥
प्र । वः॒ । ए॒ते । सु॒ऽयुजः॑ । याम॑न् । इ॒ष्टये॑ । नीचीः॑ । अ॒मुष्मै॑ । य॒म्यः॑ । ऋ॒त॒ऽवृधः॑ ।
सु॒यन्तु॑ऽभिः । स॒र्व॒ऽशा॒सैः । अ॒भीशु॑ऽभिः । क्रिविः॑ । नामा॑नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥
एषसौरीवा एतेरश्मयः सुयुजः सुष्ठुपरस्परंसंयुक्तायामन् यज्ञगमने इष्टये एषणाय नीचीर्नीचंगच्छन्तीतिशेषः अमुष्मै यजमानाय यम्योयम्याः गमनार्हाः अथवा यमोनियमितादित्यः तस्यसंबन्धिनः ऋतावृधः यज्ञस्यवर्धयितारश्च अयमादित्यः सुयन्तुभिः सुगमनैः सर्वशासैः सर्वस्यशासकैः अभीशुभीरश्मिभिः क्रिविः कर्ता नामानि नामकानिउदकानि प्रवणे निम्ने भूप्रदेशे मुषायति मुष्णातिआदत्तइत्यर्थः अथवाग्निनाआवाह्यस्याग्नेरेतेश्वाः इष्टये यज्ञगमनाय यामनि रथेसुयुजः प्रगच्छन्ति शिष्टंसमानं क्रिविः क्रिविसदृशोग्निः प्रवणे नामानिहवींष्युक्तलक्षणाभिः ज्वालाभिर्मुषायत्यादत्ते ॥ ४ ॥